(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    


॥ श्रीः ॥
6.111. अध्यायः 111
Mahabharata - Bhishma Parva - Chapter Topics
द्वन्द्वयुद्धम् ॥ 1 ॥


Mahabharata - Bhishma Parva - Chapter Text

सञ्जय उवाच। 6-111-0x(4226)(43888)
सात्यकिं दंशितं युद्धे भीष्मायाभ्युद्यतं रणे।
आर्श्यशृङ्गिर्महेष्वासो वारयामास संयुगे ॥ 6-111-1(43889)
माधवस्तु सुसंक्रुद्धो राक्षसं नवभिः शरैः ।
आजघान रणे राजन्प्रहसन्निव भारत ॥ 6-111-2(43890)
तथैव राक्षसो राजन्माधवं नवभिः शरैः ।
अर्दयामास राजेन्द्र संक्रुद्धः शिनिपुङ्गवम् ॥ 6-111-3(43891)
शैनेयः शरसङ्घं तु प्रेषयामास संयुगे ।
राक्षसाय सुसंक्रुद्धो माधवः परवीरहा ॥ 6-111-4(43892)
ततो रक्षो महाबाहुं सात्यकिं सत्यविक्रमम् ।
विव्याध विशिखैस्तीक्ष्णैः सिंहनाद ननाद च ॥ 6-111-5(43893)
माधवस्तु भृशं विद्धो राक्षसेन रणे तदा।
धैर्यमालम्ब्य तेजस्वी जहास च ननाद च ॥ 6-111-6(43894)
भगदत्तस्ततः क्रुद्धो माधवं निशितैः शरैः ।
ताडयामास समरे तोत्रैरिव महागजम् ॥ 6-111-7(43895)
विहाय राक्षसं युद्धे शैनेयो रथिनां वरः ।
प्राग्ज्योतिषाय चिक्षेप शरान्संनतपर्वणः ॥ 6-111-8(43896)
तस्य प्राग्ज्योतिषो राजा माधवस्य महद्धनुः ।
चिच्छेद शतधारेण भल्लेन कृतहस्तवत् ॥ 6-111-9(43897)
अथान्यद्धनुरादाय वेगवत्परवीरहा ।
भगदत्तं रणे क्रुद्धं विव्याध निशितैः शरैः ॥ 6-111-10(43898)
सोऽतिविद्धो महेष्वासः सृक्किणी परिसंलिहन् ।
शक्तिं कनकवैडूर्यभूषितामायसीं दृढाम् ॥ 6-111-11(43899)
यमदण्डोपमां घोरां चिक्षेप परमाहवे।
तामापतन्तीं सहसा तस्य बाहुबलेरिताम् ॥ 6-111-12(43900)
सात्यकिः समरे राजन्द्विधा चिच्छेद सायकैः ।
ततः पपात सहसा सहोल्केव हतप्रभा ॥ 6-111-13(43901)
शक्तिं विनिहतां दृष्ट्वा पुत्रस्तव विशांपते ।
महता रथवंशेन वारयामास माधवम् ॥ 6-111-14(43902)
तथा परिवृतं दृष्ट्वा वार्ष्णेयानां महारथम्।
दुर्योधनो भृशं क्रुद्धो भ्रातॄन्सर्वानुवाच ह ॥ 6-111-15(43903)
तथा कुरुत कौरव्या यथाः वः सात्यको युधि ।
न जीवन्प्रतिनिर्याति महतोऽस्माद्रथव्रजात् ॥ 6-111-16(43904)
तस्मिन्हते हतं मन्ये पाण्डवानां महद्बलम् ।
तथेति च वचस्तस्य परिगृह्य महारथाः ॥ 6-111-17(43905)
शैनेयं योधयामासर्भीष्मायाभ्युद्यतं रणे।
`अभिमन्युं तदाऽऽयान्तं भीष्मस्याभ्युद्यतं वधे।'
काम्भोजराजो बलवान्वारयामास संयुगे ॥ 6-111-18(43906)
आर्जुनिं नृपतिर्विद्ध्वा शरैः सन्नतपर्वभिः।
पुनरेव चतुःषष्ट्या राजन्विव्याध तं नृप ॥ 6-111-19(43907)
सुदक्षिणस्तु समरे पुनर्विव्याध तं पञ्चभिः ।
सारथिं चास्य नवभिरिच्छन्भीष्मस्य जीवितम् ॥ 6-111-20(43908)
तद्युद्धमासीत्सुमहत्तयोस्तत्र समागमे।
यदाभ्यधावद्गाङ्गेयं शिखण्डी शत्रुकर्शनः ॥ 6-111-21(43909)
विराटद्रुपदौ वृद्धौ वारयनतौ महाचमूम् ।
भीष्मं च युधि संरब्धावाद्रवन्तौ महारथौ ॥ 6-111-22(43910)
अश्वत्थामा रणे क्रुद्धः समियाद्रथसत्तमः।
ततः प्रववृते युद्धं तयोस्तस्य च भारत ॥ 6-111-23(43911)
विराटो दशभिर्भल्लैराजघान परंतप ।
यतमानं महेष्वासं द्रौणिमाहवशोभिनम् ॥ 6-111-24(43912)
द्रुपदश्च त्रिभिर्बाणैर्विव्याध निशितैस्तदा।
गुरुपुत्रं समासाद्य प्रहरन्तौ महाबलौ ॥ 6-111-25(43913)
अश्वत्थामा ततस्तौ तु विव्याध बहुभिः शरैः।
विराटद्रुपदौ वीरौ भीष्मं प्रति समुद्यतौ ॥ 6-111-26(43914)
तत्राद्भुतमपश्याम वृद्धयोश्चरितं महत्।
यद्द्रौणिसायकान्घोरान्प्रत्यवारयतां युधि ॥ 6-111-27(43915)
सहदेवं तथाऽऽयान्तं कृपः शारद्वतोऽभ्ययात्।
यथा नागो वने नागं मत्तो मत्तमुपाद्रवत् ॥ 6-111-28(43916)
कृपश्च समरे शूरो माद्रीपुत्रं महारथम् ।
आजघान शरैस्तूर्णं सप्तत्या रुक्मभूषणैः ॥ 6-111-29(43917)
तस्य माद्रीसुतश्चापं द्विधा चिच्छेद सायकैः ।
अथैनं छिन्नधन्वानं विव्याध नवभिः शरैः ॥ 6-111-30(43918)
सोऽन्यत्कार्मुकमादाय समरे भारसाधनम् ।
माद्रीपुत्रं सुसंहृष्टो दशभिर्निशितैः शरैः ॥ 6-111-31(43919)
आजघानोरसि क्रुद्ध इच्छन्भीष्मस्य जीवितम् ।
तथैव पाण्डवो राजञ्छारद्वतममर्षणम् ॥ 6-111-32(43920)
आजघानोरसि क्रुद्धो भीष्मस्य वधकाङ्क्षया ।
तयोर्युद्धं समभवद्धोररूपं भयावहम् ॥ 6-111-33(43921)
नकुलं तु रणे क्रुद्धो विकर्णः शत्रुतापनः ।
विव्याध सायकैः षष्ट्या रक्षन्भीष्मं महाबलम् ॥ 6-111-34(43922)
नकुलोऽपि भृशं विद्धस्तव पुत्रेण धीमता।
विकर्णं सप्तसप्तत्या निर्बिभेद शिलीमुखैः ॥ 6-111-35(43923)
तत्र तौ नरशार्दूलौ भीष्महेतोः परंतपौ ।
अन्योन्यं जघ्नुतुर्वीरौ गोष्ठे गोवृषभाविव ॥ 6-111-36(43924)
घटोत्कचं रणे यान्तं निघ्नन्तं तव वाहिनीम् ।
दुर्मुखः समरे प्रायाद्भीष्यहेतोः पराक्रमी ॥ 6-111-37(43925)
हैडिम्बस्तु रणे राजन्दुर्मुखं शत्रुतापनम् ।
आजघानोरसि क्रुद्धः शरेणानतपर्वणा ॥ 6-111-38(43926)
भीमसेनसुतं चापि दुर्मुखः सुमुखैः शरैः।
षष्ट्या वीरो नदन्हृष्टो विव्याध रणमूर्धनि ॥ 6-111-39(43927)
धृष्टद्युम्नं तथाऽऽयान्तं भीष्मस्य वधकाङ्क्षिणम् ।
हार्दिक्यो वारयामास रथश्रेष्ठं महारथः ॥ 6-111-40(43928)
हार्दिक्यः पार्षतं चापि विद्ध्वा पञ्चभिरायसैः ।
पुनः पञ्चाशता तूर्णं तिष्ठतिष्ठेति चाब्रवीत् ॥ 6-111-41(43929)
आजघान महाबाहुः पार्षतं तं महारथम् ।
तं चैव पार्षतो राजन्हार्दिक्यं नवभिः शरैः ॥ 6-111-42(43930)
विव्याध निशितैस्तीक्ष्णैः कङ्कपत्रैरजिह्नगैः ।
तयोः समभवद्युद्धं भीष्महेतोर्महाहवे ॥ 6-111-43(43931)
अन्योन्यातिशये युक्तं यथा वृत्रमहेन्द्रयोः ।
भीमसेनं तथाऽऽयान्तं भीष्मं प्रति महारथम् ॥ 6-111-44(43932)
भूरिश्रवाभ्ययात्तूर्णं तिष्ठतिष्ठेति चाब्रवीत् ।
सौमदत्तिरथो भीममाजघान स्तनान्तरे ॥ 6-111-45(43933)
नाराचेन सुतीक्ष्णेन रुक्मपुङ्खेन संयुगे।
उरःस्थेन बभौ तेन भीमसेनः प्रतापवान् ॥ 6-111-46(43934)
स्कन्दशक्त्या यथा क्रौञ्चः पुरा नृपतिसत्तम।
तौ शरान्सूर्यसंकाशान्कर्मारपरिमार्जितान् ॥ 6-111-47(43935)
अन्योन्यस्य रणे क्रुद्धौ चिक्षिपते नरर्षभौ ।
भीमो भीष्मवधाकाङ्क्षी सौमदत्तिं महारथम् ॥ 6-111-48(43936)
तथा भीष्मजये गृध्नुः सौमदत्तिस्तू पाण्डवम् ।
कृतप्रतिकृते यत्तौ योधयामासतू रणे ॥ 6-111-49(43937)
युधिष्ठिरं तु कौन्तेयं महत्या सेनया वृत्तम्।
भीष्माभिमुखमायान्तं भारद्वाजो न्यवारयत् ॥ 6-111-50(43938)
द्रोणस्य रथनिर्घोषं पर्जन्यनिनदोपमम् ।
श्रुत्वा प्रभद्रका राजन्समकम्पन्त मारिष ॥ 6-111-51(43939)
सा सेना महती राजन्पाण्डुपुत्रस्य संयुगे।
द्रोणेन वारिता यत्ता न चचाल पदात्पदम् ॥ 6-111-52(43940)
चेकितान रणे यत्तं भीष्मं प्रति जनेश्वर ।
चित्रसेनस्तव सुतः क्रुद्धरूपमवारयत् ॥ 6-111-53(43941)
भीष्महेतोः पराक्रान्तश्चित्रसेनः पराक्रमी ।
चेकितानं परं शक्त्या योधयामास भारत ॥ 6-111-54(43942)
तथैव चेकितानोऽपि चित्रसेनमवारयत् ।
तद्युद्धमासीत्सुमहत्तयोस्तत्र समागमे ॥ 6-111-55(43943)
अर्जुनो वार्यमाणस्तु बहुशस्तत्र भारत ।
विमुखीकृत्य पुत्रं ते सेनां तव ममर्द ह ॥ 6-111-56(43944)
दुःशासनोऽपि परया शक्त्या पार्थमवारयत्।
कथं भीष्मं न नो हन्यादिति निश्चित्य भारत ॥ 6-111-57(43945)
सा वध्यमाना समरे पुत्रस्य तव वाहिनी ।
लोड्यते रथिभिः श्रेष्ठैस्तत्रतत्रैव भारत ॥ ॥ 6-111-58(43946)

इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि दशदिवसयुद्धे एकादशाधिकशततमोऽध्यायः ॥

Mahabharata - Bhishma Parva - Chapter Footnotes

6-111-58 लोड्यते आकुलीक्रियते ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.